|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.84. अध्यायः 084
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति इन्द्रबृहस्पतिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-84-0x(5560)(68109)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर॥ 12-84-1(68110)
शक्र उवाच। 12-84-2x(5561)
किंस्विदेकपढं ब्रह्मन्पुरुषः सम्यगाचरन्।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्॥ 12-84-2(68111)
बृहस्पति उवाच। 12-84-3x(5562)
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्॥ 12-84-3(68112)
एतदेकपदं शक्र सर्वलोकसुखावहम्।
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा॥ 12-84-4(68113)
यो हि नाभाषते किंचित्सर्वदा भुकुटीमुखः।
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्॥ 12-84-5(68114)
यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते।
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति॥ 12-84-6(68115)
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्।
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्॥ 12-84-7(68116)
आददन्नपि भूतानां मधुरामीरयन्गिरम्।
सर्वलोकमिमं शक्र सान्त्वेव कुरुते वशे॥ 12-84-8(68117)
तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि।
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः॥ 12-84-9(68118)
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते॥ 12-84-10(68119)
भीष्म उवाच। 12-84-11x(5563)
इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा।
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर॥ ॥ 12-84-11(68120)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरशीतितमोऽध्यायः॥ 84॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-84-1 अत्र मन्त्रमूलभूते प्रजासंग्रहणे विषये॥ 12-84-2 एकपदं यत्र सर्वे गुणाः अन्तर्भवन्ति तदेव कर्तव्यं वस्तु। प्रमाणं संमतम्॥ 12-84-3 सान्त्वं निष्कपटं प्रियवचनम्॥ 12-84-5 नाभाषते तूष्णीमास्ते। नाचरन् अनाचरन्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|